यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात्। यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑॥
yaḥ pṛthivīṁ vyathamānām adṛṁhad yaḥ parvatān prakupitām̐ aramṇāt | yo antarikṣaṁ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ ||
यः। पृ॒थि॒वीम्। व्यथ॑मानाम्। अदृं॑हत्। यः। पर्व॑तान्। प्रऽकु॑पितान्। अर॑म्णात्। यः। अ॒न्तरि॑क्षम्। वि॒ऽम॒मे। वरी॑यः। यः। द्याम्। अस्त॑भ्नात्। सः। ज॒ना॒सः॒। इन्द्रः॑॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे जनासो यो व्यथमानां पृथिवीमदृंहद्यः प्रकुपितान् पर्वतानरम्णाद्यो वरीयोऽन्तरिक्षं विममे यो द्यामस्तभ्नात्स इन्द्रो वेदितव्यः ॥२॥